Friday, January 22, 2021

Rugvediya purushsukt 10, 90

Rugvediya 10, 90

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । 
स भूमि विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम्॥१॥
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥
एतावानस्य महिमातो ज्यायाढ्त्श्च पूरुषः । 
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि॥३॥
त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः । 
ततो विष्वव्यक्रामत्साशनानशने अभि॥४॥
तस्माद्विराळजायत विराजो अधि पूरुषः । 
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः॥५॥
यत्पुरुषेण हविषा देवा यज्ञमतन्वत । 
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥६॥
तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः । 
तेन देवा अयजन्त साध्या ऋषयश्च ये॥७॥
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशून्ताढ्त्श्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये॥८॥
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे । 
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥९॥
तस्मादश्वा अजायन्त ये के चोभयादतः । 
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः॥१०॥
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । 
मुखं किमस्य कौ बाहू का ऊरू पादा उच्यते॥११॥
ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । 
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत॥१२॥
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत॥१३॥
नाभ्या आसीदन्तरिक्षं शीर्णो द्यौः समवर्तत । 
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन्॥१४॥
सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः । 
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम्॥१५॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। 
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥१६॥


No comments:

Post a Comment

શબ્દ રમત રમણે ની રમુજ

મૂળ પ્રાર્થના असतो मा सदगमय ॥  तमसो मा ज्योतिर्गमय ॥  मृत्योर्मामृतम् गमय ॥ સામાન્ય મજાક અન્ન એવો ઓડકાર ખરો, પણ .. દરેક મનુષ્યને પોતાની જ વા...