Asya Vaamiya Sukt or Aatmaa Sukt
rugved 1, 164 or Atharva Ved 9, 14 & 15
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं
विश्पतिं सप्तपुत्रम्॥१॥
सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति
सप्तनामा ।
त्रिनाभि चक्रमजरमनर्वं यत्रेमा
विश्वा भुवनाधि तस्थुः॥२॥
इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त
वहन्त्यश्वाः ।
सप्त स्वसारो अभि सं नवन्ते यत्र
गवां निहिता सप्त नाम॥३॥
को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था
बिभर्ति ।
भूम्या असुरसृगात्मा क्व स्वित्को
विद्वांसमुप गात्प्रष्टुमेतत्॥४॥
पाकः पृच्छामि मनसाविजानन्देवानामेना
निहिता पदानि ।
वत्से बष्कयेऽधि सप्त तन्तून्वि
तत्निरे कवय ओतवा उ॥५॥
अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि
विद्मने न विद्वान् ।
वि यस्तस्तम्भ षळिमा
रजांथजस्य रूपे किमपि स्विदेवा ॥६॥
इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं
वेः ।
शीर्ष्णः क्षीरं दुह्रते गावो अस्य वत्रिं वसाना
उदकं पदापुः॥७॥
माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि
जग्मे ।
सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त
इदुपवाकमीयुः।।८॥
युक्ता मातासीधुरि दक्षिणाया अतिष्ठद्गर्भो
वृजनीष्वन्तः ।
अमीमेद्वत्सो अनु
गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु।।९।।
तिस्रो मातृस्त्रीन्पितृन्बिभ्रदेक ऊर्ध्वस्तस्थौ
नेमव ग्लापयन्ति ।
मन्त्रयन्ते दिवो अमुष्य पृष्ठे
विश्वविदं वाचमविश्वमिन्वाम्॥१०॥
द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि
द्यामृतस्य ।
आ पुत्रा अग्ने मिथुनासो अत्र सप्त
शतानि विंशतिश्च तस्थुः॥११॥
पञ्चपादं पितरं द्वादशाकृति दिव आहुः परे
अर्धे पुरीषिणम् ।
अथेमे अन्य उपरे विचक्षणं
सप्तचक्रे षळर आहुरर्पितम्॥१२॥
पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि
विश्वा ।
तस्य नाक्षस्तप्यते भूरिभारः सनादेव न
शीर्यते सनाभिः॥१३॥
सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता
वहन्ति ।
सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता
भुवनानि विश्वा॥१४॥
साकंजानां सप्तथमाहुरेकजं षळिद्यमा ऋषयो
देवजा इति ।
तेषामिष्टानि विहितानि धामशः
स्थात्रे रेजन्ते विकृतानि रूपशः॥१५॥
स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न
वि चेतदन्धः ।
कविर्यः पुत्रः स ईमा चिकेत यस्ता
विजानात्स पितुष्पितासत्॥१६॥
ये (किरणे) स्त्रियाँ हैं, फिर भी पुरुष (गर्भ धारण करने में समर्थ) हैं, यह तथ्य (सूक्ष्म) दृष्टि सम्पन्न ही देख सकते हैं। दूरदर्शी पुत्र (साधक - शिष्य) ही इसे अनुभव कर सकता है । जो यह जान लेता है, वह पिता का भी पिता (Though he is smaller but after knowing, he is father of the world maker)(pitushptitaasat is saptami vibhakti's seven kind roop) सर्व सृजेता को भी जानने वाला) हो जाता है॥१६॥
अवः परेण पर एनावरेण पदा वत्सं बिभ्रती
गौरुदस्थात् ।
सा कद्रीची कं स्विदर्धं परागात्क्व
स्वित्सूते नहि यूथे अन्तः॥१७॥
अवः परेण पितरं यो अस्यानुवेद पर एनावरेण ।
कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि
प्रजातम्॥१८॥
ये अर्वाञ्चस्ताँ उ पराच आहुये पराञ्चस्ताँ उ
अर्वाच आहुः ।
इन्द्रश्च या चक्रथुः सोम तानि धुरा
न युक्ता रजसो वहन्ति॥१९॥
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि
षस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो
अभि चाकशीति॥२०॥
यत्रा सुपर्णा अमृतस्य भागमनिमेषं
विदथाभिस्वरन्ति ।
इनो विश्वस्य भुवनस्य गोपाः
स मा धीरः पाकमत्रा विवेश॥२१॥
यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि
विश्वे ।
तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः
पितरं न वेद॥२२॥
यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं
निरतक्षत ।
यद्वा जगज्जगत्याहितं पदं य
इत्तद्विदुस्ते अमृतत्वमानशुः॥२३॥
गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन
वाकम् ।
वाकेन वाकं द्विपदा चतुष्पदाक्षरेण
मिमते सप्त वाणीः॥२४॥
जगता सिन्धुं दिव्यस्तभायद्रथंतरे सूर्यं पर्यपश्यत्|
गायत्रस्य समिस्तिस्र आहुस्ततो मह्ना प्र
रिरिचे महित्वा॥२५॥
उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत
दोहदेनाम् ।
श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो
घर्मस्तदु षु प्र वोचम्॥२६॥
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती
मनसाभ्यागात् ।
दुहामश्विभ्यां पयो अघ्येयं सा
वर्धतां महते सौभगाय॥२७॥
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं
हिङ्ङकृणोन्मातवा उ ।
सृक्वाणं धर्ममभि
वावशाना मिमाति मायुं पयते पयोभिः॥२८॥
अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायु
ध्वसनावधि श्रिता ।
सा चित्तिभिर्नि हि चकार
मर्यं विद्युद्भवन्ती प्रति वव्रिमौहत॥२९॥
अनच्छये तुरगातु जीवमेजद्धृवं मध्य आ
पस्त्यानाम् ।
जीवो मृतस्य चरति स्वधाभिरमो
मयेना सयोनिः॥३०॥
अपश्यं गोपामनिपद्यमानमा च परा च
पथिभिश्चरन्तम् ।
स सध्रीचीः स विषूचीर्वसान
आ वरीवर्ति भुवनेष्वन्तः॥३१॥
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु
तस्मात् ।
स मातुर्योना परिवीतो अन्तर्बहुप्रजा
निर्ऋतिमा विवेश॥३२॥
द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी
महीयम् ।
उत्तानयोश्चम्बोर्योनिरन्तरत्रा पिता
दुहितुर्गर्भमाधात्॥३३॥
पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र
भुवनस्य नाभिः ।
पृच्छामि त्वा वृष्णो अश्वस्य
रेतः पृच्छामि वाचः परमं व्योम॥३४॥
इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य
नाभिः ।
अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं
वाचः परमं व्योम॥३५॥
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति
प्रदिशा विधर्मणि ।
ते धीतिभिर्मनसा ते
विपश्चितः परिभुवः परि भवन्ति विश्वतः॥३६॥
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो
मनसा चरामि ।
यदा मागन्प्रथमजा
ऋतस्यादिद्वाचो अश्नुवे भागमस्याः॥३७॥
अपाङ्प्राङेति स्वधया गृभीतोऽमो म]ना
सयोनिः ।
ता शश्वन्ता विषूचीना वियन्ता न्यन्यं
चिक्युर्न नि चिक्युरन्यम्॥३८॥
ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे
निषेदुः ।
यस्तन्न वेद किमृचा करिष्यति य
इत्तद्विदुस्त इमे समासते॥३९॥
सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः
स्याम ।
अद्धि तृणमध्ये विश्वदानीं पिब
शुद्धमुदकमाचरन्ती॥४०॥
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी
सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी
सहस्राक्षरा परमे व्योमन्॥४१॥
तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति
प्रदिशश्चतस्रः ।
ततः क्षरत्यक्षरं तद्विश्वमुप
जीवति॥४२॥
शकमयं धूममारादपश्यं विषूवता पर एनावरेण।
उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि
प्रथमान्यासन्॥४३॥
त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे
वपत एक एषाम् ।
विश्वमेको अभि चष्टे
शचीभिर्धाजिरेकस्य ददृशे न रूपम्॥४४॥
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा
ये मनीषिणः ।
गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति॥४५॥
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो
गरुत्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं
मातरिश्वानमाहुः॥४६॥
कृष्णं नियानं हरयः सुपर्णा
अपो वसाना दिवमुत्पतन्ति ।
त आववृत्रन्त्सदनादृतस्यादिघृतेन पृथिवी
व्युद्यते॥४७॥
द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क
उ तच्चिकेत ।
तस्मिन्त्साकं त्रिशता न
शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः॥४८॥
यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि
वार्याणि ।
यो रत्नधा वसुविद्यः सुदत्रः सरस्वति
तमिह धातवे कः॥४९॥
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि
प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र
पूर्वे साध्याः सन्ति देवाः॥५०॥
समानमेतदुदकमुच्चैत्यव चाहभिः ।
भूमि
पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः॥५१॥
दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भ
दर्शतमोषधीनाम् ।
अभीपतो वृष्टिभिस्तर्पयन्तं
सरस्वन्तमवसे जोहवीमि॥५२॥
No comments:
Post a Comment