Thursday, June 3, 2021

MANYU Sukt

ऋग्वेदः 10 mandal 83 and 84 chapter

Manyu Sukt

It's not related to character Abhimanyu but it's related to it's special meaning of name... As per matruka sandhi sankalana and ekakshar kosh Agni Puran Mahatmya

Special case of Mahabharata ... when bhishm not killed by any one of Pandavas, than Draupadi asked Yudhishthir as 

DON'T YOU HAVE "MANYU" IN YOUR SELF???

MEANS...
don't you have your inner curious curiosity of coming out from child behaviour...???


ऋग्वेदः 10, 83 chapter

यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता॥१॥
- ऋग्वेदः
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः । मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः॥२॥
- ऋग्वेदः
अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् । अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः॥३॥
- ऋग्वेदः
त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः । विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि॥४॥
- ऋग्वेदः
अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः । तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि॥५॥
- ऋग्वेदः
अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः । मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः॥६॥
- ऋग्वेदः
अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि । जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव॥७॥
- ऋग्वेदः

ऋग्वेदः 10, 84 chapter (MANYU Sukt continue)

त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः । तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः॥१॥
- ऋग्वेदः
अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि । हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व॥२॥
- ऋग्वेदः
सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् । उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम्॥३॥
- ऋग्वेदः
एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि । अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे॥४॥
- ऋग्वेदः
विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह । प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ॥५॥
- ऋग्वेदः
आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् । क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि॥६॥
- ऋग्वेदः
संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम्॥७॥
- ऋग्वेदः

Besides of rugved there are another MANYU Sukt ...
Here different ways producing manyu Sukt in Atharva ved 4th mandalm 31 chapter



Both has very minor differences as rushi name...

In rugved MANYUSTAAPAS RUSHI
In Atharva ved BRAHMAASKAND RUSHI

MANYUSTAAPAS means. Mana: ust a PA sa:..... Related to only one (probably)

BRAHMAASKAND means each And every who are surrounding us on earth related matters, who are curious ways having curiosity for new mind thought devlopment with fruitfulness of each words and alphabet energy for rashtrotthaan (patriotism) matter...

Jay Gurudev Dattatreya, Jay Hind

Jigaram Jaigishya

जय गुरुदेव दत्तात्रेय, जय हिंद

जिगरम जैगीष्य

જય ગુરુદેવ દત્તાત્રેય, જય હિન્દ

જીગરમ જૈગીષ્ય

Happy Moments

शुभकामनाएं

No comments:

Post a Comment

શબ્દ રમત રમણે ની રમુજ

મૂળ પ્રાર્થના असतो मा सदगमय ॥  तमसो मा ज्योतिर्गमय ॥  मृत्योर्मामृतम् गमय ॥ સામાન્ય મજાક અન્ન એવો ઓડકાર ખરો, પણ .. દરેક મનુષ્યને પોતાની જ વા...