ऋग्वेद 10, 97
औषधय सूक्त
या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
मनै नु बभ्रूणामहं शतं धामानि सप्त च॥१॥
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अधा शतक्रत्वो यूयमिमं मे अगदं कृत॥२॥
ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः॥३॥
ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे ।
सनेयमश्वंगां वास आत्मानं तव पूरुष॥४॥
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाजइत्किलासथ यत्सनवथ पूरुषम्॥५॥
यत्रौषधीः समग्मत राजानः समिताविव ।
विप्रः सउच्यते भिषग्रक्षोहामीवचातनः॥६॥
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् । आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये॥७॥
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनं सनिष्यन्तीनामात्मानं तव पूरुष॥८॥
इष्कृति म वो माताथो यूयं स्थ निष्कृतीः ।
सीराः पतत्रिणीः स्थन यदामयति निष्कृथ॥९॥
अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमुः ।
ओषधीः प्राचुच्यतुर्यत्किं च तन्वो रपः॥१०॥
यदिमा वाजयन्नहमोषधीहस्त आदधे । आत्मायक्ष्मस्य नश्यति पुरा जीवगृभो यथा॥११॥
यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः ।
ततो यक्ष्मं विबाधध्व उग्रो मध्यमशीरिव॥१२॥
साकं यक्ष्म प्र पत चाषेण किकिदीविना ।
साकं वातस्य ध्राज्या साकं नश्य निहाकया॥१३॥
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
ताः सर्वाः संविदाना इदं मे प्रावता वचः॥१४॥
याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः॥१५॥
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात्॥१६||
अवपतन्तीरवदन्दिव ओषधयस्परि ।
यं जीवमश्नवामहै न स रिष्याति पूरुषः॥१७॥
या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
तासांत्वमस्युत्तमारं कामाय शं हृदे॥१८॥
या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।
बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम्॥१९॥
मा वो रिषत्खनिता यस्मै चाहं खनामि वः ।
द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम्॥२०॥
याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।
सर्वाःसंगत्य वीरुधोऽस्यै सं दत्त वीर्यम्॥२१॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
यस्मैकृणोति ब्राह्मणस्तं राजन्पारयामसि॥२२॥
त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।
उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति॥
२३॥
जय गुरुदेव दत्तात्रेय
जय हिंद
No comments:
Post a Comment